|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.73. अध्यायः 073
Mahabharata - Drona Parva - Chapter Topics
युधिष्ठिरेणार्जुनम्प्रत्यभिमन्युनिधनप्रकारकथनम्॥ 1 ॥ अर्जुनेन सशपथं जयद्रथवधप्रतिज्ञा॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
युधिष्ठिर उवाच। 7-73-0x(4447)(47421)
त्वयि याते महाबाहो संशप्तकबलं प्रति।
प्रयत्नमकरोत्तीव्रमाचार्यो प्रहणे मम॥ 7-73-1(47422)
व्यूढानीकं ततो द्रोणं यतमानं महामृधे।
प्रतिव्यूह्य सहानीकाः प्रत्यरुध्म वयं बलात्॥ 7-73-2(47423)
स वार्यमाणो रथिभिर्मयि चापि सुरक्षिते।
अस्मानभिजगामाशु पीडयन्निशितैः शरैः॥ 7-73-3(47424)
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः।
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु॥ 7-73-4(47425)
ततस्तमप्रतिरथमहं सौभद्रमब्रवम्।
द्रोणानीकमिदं भिन्द्धि द्वारं सञ्जनयस्व नः॥ 7-73-5(47426)
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान्।
असह्यमपि तं भारं वोढुमेवोपचक्रमे॥ 7-73-6(47427)
स तवास्त्रोपदेशेन वीर्येण च समन्वितः।
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम्॥ 7-73-7(47428)
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे।
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम्॥ 7-73-8(47429)
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः।
वरदानेन रुद्रस्य सर्वान्नः समवारयत्॥ 7-73-9(47430)
ततो द्रोणः कृपः कर्णो द्रौणिः कौसल्य एव च।
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन्॥ 7-73-10(47431)
परिवार्य तु तैः सर्वैर्युधि बालो महारथैः।
यतमानः परं शक्त्या बहुभिर्विरथीकृतः॥ 7-73-11(47432)
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्।
`संशयं परमं प्राप्तं पदातिनमवस्थितम्।
गदाहस्तोऽभ्ययात्तूर्णं जिघांसुरपराजितम्॥ 7-73-12(47433)
गदिनं त्वथ तं दृष्ट्वा वासवस्यात्मजात्मजः।
स जग्राह गदां वीरो गदायुद्धविशारदः॥ 7-73-13(47434)
गदामण्डलमार्गस्थौ सर्वक्षत्रस्य पश्यतः।
तौ सम्प्रजग्मतुर्वीरावन्योन्यस्यान्तरैषणौ॥ 7-73-14(47435)
तावन्योन्यं गदाग्राभ्यां ताडितौ युद्धदुर्मदौ।
इन्द्रध्वजाविवोत्सृष्टौ गतसत्वौ महींगतौ॥ 7-73-15(47436)
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत्॥ 7-73-16(47437)
गदावेगेन महता व्यायामेन च मोहितः।
विमना न्यपतद्भूमौ सौभद्रः परवीरहा॥ 7-73-17(47438)
स तु हत्वा सहस्राणि द्विपाश्वरथपत्तिनाम्'।
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून्॥ 7-73-18(47439)
बृहद्बलं च राजानं स्वर्गेण समयोजयत्।
`गतः सुकृतिनां लोकान्ये च स्वर्गजितां शुभाः॥ 7-73-19(47440)
अदीनस्त्रासयञ्छत्रून्नन्दयित्वा च बान्धवान्।
असकृन्नाम विश्राव्य पितॄणां मातुलस्य च'॥ 7-73-20(47441)
वीरो दिष्टान्तमापन्नः शोचयन्वान्धवान्बहून्।
`ततः स्म शोकसन्तप्ता भवताऽद्य समेयुषः'॥ 7-73-21(47442)
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम्।
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान्॥ 7-73-22(47443)
सञ्जय उवाच। 7-73-23x(4448)
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम्।
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि॥ 7-73-23(47444)
विषण्णवदनाः सर्वे परिवार्य धनञ्जयम्।
नेत्रैरनिमिषैर्दीनाः प्रत्यवैक्षन्परस्परम्॥ 7-73-24(47445)
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्च्छितः।
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः॥ 7-73-25(47446)
पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाय्य च।
`त्रिशिखां भ्रुकुटीं कृत्वा क्रोधसंरक्तलोचनः'।
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्॥ 7-73-26(47447)
अर्जुन उवाच। 7-73-27x(4449)
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ताऽजयद्रथम्।
न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति॥ 7-73-27(47448)
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्।
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्॥ 7-73-28(47449)
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्।
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्॥ 7-73-29(47450)
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन।
अपि द्रोणकृपौ राजञ्छादयिष्यामि ताञ्छरैः॥ 7-73-30(47451)
यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः।
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसम्मतान्॥ 7-73-31(47452)
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम्।
गुरुदारगतानां ये पिशुनानां च ये सदा॥ 7-73-32(47453)
साधूनसूयतां ये च ये चापि परिवादिनाम्।
ये च निक्षेपहन्तॄणां ये च विश्वासघातिनाम्॥ 7-73-33(47454)
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम्।
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि॥ 7-73-34(47455)
पायसं वा यवान्नं वा शाकं कृसरमेव वा।
संयावापूपमांसानि ये च लोका वृथाश्नताम्।
तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम्॥ 7-73-35(47456)
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्।
अवमन्यमानो यान्याति वृद्धान्साधून्गुरूंस्तथा॥ 7-73-36(47457)
स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत्।
याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः।
तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम्॥ 7-73-37(47458)
नग्नस्य स्नायमानस्य या च वन्ध्याऽतिथेर्गतिः।
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः॥ 7-73-38(47459)
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्।
भृत्यैः सन्दृश्यमानानां पुत्रदाराश्रितैस्तथा॥ 7-73-39(47460)
असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम्।
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्॥ 7-73-40(47461)
संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम्।
न बिभर्ति नृसंसात्मा निन्दते चोपकारिणम्॥ 7-73-41(47462)
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च।
अनर्हेभ्यश्च यो दद्याद्वृषलीपतये तथा॥ 7-73-42(47463)
मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः।
तेषां गतिमियां क्षिप्रं न चेद्धान्यां जयद्रथम्॥ 7-73-43(47464)
भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम्।
पालाशमासनं चैव तिन्दुकैर्दन्तधावनम्॥ 7-73-44(47465)
ये चावर्जयतां लोकाः स्वपतां च तथोषसि।
शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः॥ 7-73-45(47466)
एककूपोदकग्रामे वेदध्वनिविवर्जिते।
षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम्॥ 7-73-46(47467)
दिवामैथुनिनां चापि दिवसेषु च शेरते।
अगारदाहिनां चैव गरदानां च ये मताः॥ 7-73-47(47468)
अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः।
रजस्वलां सेवयन्तः कन्यां शुल्केन दायिनः॥ 7-73-48(47469)
या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम्।
आस्यमैथुनिकानां च ये दिवामैथुने रताः॥ 7-73-49(47470)
ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद्ददाति न।
तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम्॥ 7-73-50(47471)
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः।
ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम्॥ 7-73-51(47472)
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्।
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत॥ 7-73-52(47473)
यद्यस्मिन्न हत्ते पापे सूर्योऽस्तमुपयास्यति।
इहैव सम्प्रवेष्टाऽहं ज्वलितं जातवेदसम्॥ 7-73-53(47474)
असुरसुरमनुष्याः पक्षिणो वोरगा वा
पितृरजनिचरा वा ब्रह्मदेवर्षयो वा।
चरमचरमपीदं यत्परं चापि तस्मा--
त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः॥ 7-73-54(47475)
यदि विशति रसातलं तदग्र्यं
वियदपि देवपुरं दितेः पुरं वा।
तदपि शरशतैरहं प्रभाते
भृशमभिमन्युरिपोः शिरोऽभिहर्ता॥ 7-73-55(47476)
सञ्जय उवाच। 7-73-56x(4450)
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्।
तस्य सर्वमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम्॥ 7-73-56(47477)
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः।
प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं च फल्गुनः॥ 7-73-57(47478)
स पाञ्चजन्योऽच्युतवक्त्रवायुना
भृशं सुपूर्णोदरनिःसृतध्वनिः।
जगत्सपातालवियद्दिगीश्वरं
प्रकम्पयामास युगात्यये यथा॥ 7-73-58(47479)
ततो वादित्रघोषाश्च प्रादुरासन्सहस्रशः।
सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना॥ 7-73-59(47480)
`प्रानृत्यदिव गाण्डीवं शरास्तूणीगता मुदा।
निराक्रामन्निव तदा स्वयमेव मृधैषिणः॥ 7-73-60(47481)
भीमसेनः सुसंहृष्टः प्रत्यभाषत भारत।
धनञ्जयमभिप्रेक्ष्य हर्षगद्गदया गिरा॥ 7-73-61(47482)
प्रतिज्ञोद्भवशब्देन कृष्णशङ्खस्वनेन च।
निहतो धार्तराष्ट्रोऽयं सानुबन्धः सुयोधनः॥ 7-73-62(47483)
अथ मृदिततमाग्र्यदाममाल्यं
तव सुतशोकमयं च रोषजातम्।
व्यपनुदति महाप्रभावसेन--
न्नरवर वाक्यमिदं महार्थमिष्टम्॥ 7-73-63(47484)
सञ्जय उवाच। 7-73-64x(4451)
अथ शङ्ख्यैश्च भेरीभिः पणवैः सैनिकास्तथा।
ससूतमागधा जिष्णुं स्तुतिभिः समपूजयन्॥ 7-73-64(47485)
तदा भीमं बलं सर्वे तेन नादेन मोहितम्।
तावकं तन्महाराज विषण्णं समपद्यत'॥ ॥ 7-73-65(47486)
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि त्रिसप्ततितमोऽध्यायः॥ 73 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-73-38 वन्ध्यापतेः इति ङ. पाठः। उत्क्रोशकानृतानां च इति क. पाठः। उत्कोटिकानृतानां च इति ट.ङ.पाठः॥ 5-73-39 आत्मापहारिणां आत्मानमन्यथा प्रकाशयताम्॥ 5-73-42 वृषली शूद्रा कन्याभावे रजस्वला वा॥ 5-73-55 दितेरिति। कार्ये कारणोपचाराद्दैत्यानामित्यर्थः॥ 5-73-73 त्रिसप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|